Sunday, September 6, 2015

लकाराणां स्मरणम्

दशलकाराः 
संस्कृते दश लकाराः सन्ति । लट् ,लिट् , लुट् ,लृट् , लेट् ,लोट्, लङ् , लिङ्, लुङ्,लृङ् चेति | 
कथं स्मर्तव्यानि इमानि नामानि ? कष्टम् अनुभवेयुः केचन | किन्तु अत्रास्ति कश्चन अतिसरलः मार्गः .....   
  1. माहेश्वरसूत्रेषु विद्यमानान् स्वरवर्णान् स्वीकुर्मः .......अ इ उ ऋ (लृ ) ए ओ (ऐ औ )
  2. ल् इति अक्षरेण साकम् इमान् स्वरवर्णान् योजयामः | तद्यथा  ल लि लु लृ ले लो (मनसि स्मरामः सदा ) 
  3. एतेषाम् अन्ते ट् कारं ङ् च योजयित्वा दशलकारान् वदामः | 
  4. लट् - लिट् - लुट् - लृट् - लेट् - लोट् 
  5. लङ् - लिङ् - लुङ् -  लृङ्
  6. (लेट् लकारं विहाय - लिङ् लकारं विधिलिङ् ,आशिर्लिङ् इति द्वेधा कृत्वा )
  7. लट् - लिट् - लुट् - लृट् -  लोट् 
  8. लङ् - विधिलिङ् - आशिर्लिङ् - लुङ् -  लृङ्  
अत्र दशलकाराणां नाम्नां कण्ठपाठः नावश्यकः खलु  | किन्तु सदा स्मरन्तु अ इ उ ऋ ए ओ |
{सिर्फ  ल लि लु लृ.... लेलो!!!! दस लकार बोलो !!!!!!} 

No comments:

Post a Comment